|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.5. अध्यायः 005
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
इन्द्रेण पुनर्ब्राह्मण्यप्राप्तये तपस्यते मतङ्गाय ब्राह्मण्यस्य दुष्प्रापत्वकथनपूर्वकमितराभीष्टवरदानम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः।
सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत॥ 13-5-1(81413)
तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत्।
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा॥ 13-5-2(81414)
मतङ्ग उवाच। 13-5-3x(6756)
इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः।
अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम्॥ 13-5-3(81415)
शक्र उवाच। 13-5-4x(6757)
चण्डालयोनो जातेन नावाप्यं वै कथञ्चन।
अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः॥ 13-5-4(81416)
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः।
अध्यतिष्ठद्गयां गत्वा सोऽङ्गुष्टेन शतं समाः॥ 13-5-5(81417)
सुदुर्वहं वहन्योगं कृशो धमनिसन्ततः।
त्वगस्थिभूतो धर्मात्मा स ततापेति नः श्रुतम्॥ 13-5-6(81418)
तं तपन्तमभिद्रुत्य पाणिं जग्राह वासवः।
वराणामीश्वरो दाता सर्वभूतहिते रतः॥ 13-5-7(81419)
शक्र उवाच। 13-5-8x(6758)
मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते।
ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः॥ 13-5-8(81420)
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन्।
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः॥ 13-5-9(81421)
ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा।
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते॥ 13-5-10(81422)
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति॥ 13-5-11(81423)
बह्वीस्तु संसरन्योनीर्जायमानः पनुःपुनः।
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति॥ 13-5-12(81424)
तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः।
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः॥ 13-5-13(81425)
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम्।
त्वां तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषसे॥ 13-5-14(81426)
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्दुरासदम्।
सुदुर्लभं सदावाप्य नानुतिष्ठन्ति मानवाः॥ 13-5-15(81427)
ये पापेभ्यः पापतमास्तेषामधम एव सः।
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम्॥ 13-5-16(81428)
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम्।
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः॥ 13-5-17(81429)
एकारामो ह्यहं शक्र निर्न्द्वद्वो निष्परिग्रहः।
अहिंसादममास्थाय कथं नार्हामि विप्रताम्॥ 13-5-18(81430)
दैवं तु कथमेतद्वै यदहं मातृदोषतः।
एतामवस्थां सम्प्राप्तो धर्मज्ञः सन्पुरन्दरं॥ 13-5-19(81431)
नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम्।
यदर्थं यत्नवानेव न लभे विप्रतां विभो॥ 13-5-20(81432)
एवंगते तु धर्मज्ञ दातुमर्हसि मे वरम्।
यदि तेऽहमनुग्राह्यः किचिद्वा सुकृतं मम॥ 13-5-21(81433)
वैशम्पायन उवाच। 13-5-22x(6759)
वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा।
चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम्॥ 13-5-22(81434)
यथा कामविहारी स्यां कामरूपी विहङ्गमः।
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्॥ 13-5-23(81435)
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर।
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये॥ 13-5-24(81436)
शक्र उवाच। 13-5-25x(6760)
मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति।
स्त्रियः सर्वास्त्वया लोके यक्ष्यन्ते भूतिकर्मणि॥ 13-5-25(81437)
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि।
कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति॥ 13-5-26(81438)
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत।
प्राणांस्त्यक्त्वा मतङ्गोपि प्राप तत्स्थानमुत्तमम्॥ 13-5-27(81439)
एवमेव परं स्थानं मर्त्यानां भरतर्षभ।
ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना॥ ॥ 13-5-28(81440)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चमोध्यायः॥ 5 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-5-1 सहस्रं वत्सराम्॥ 7-5-7 अभिद्रुत्य गत्वा॥ 7-5-8 परिपन्थिभिः कामाद्यैश्चोरैः संवृतमतो दुःसंरक्ष्यमपीत्यर्थः॥ 7-5-9 अपूजयन् ब्राह्मण्यमिति शेषः॥ 7-5-10 ब्राह्मणेभ्यस्तद्द्वारा देवादयस्तृप्यन्तीत्यर्थः॥ 7-5-11 यद्यद्वाञ्छति तत्तत्कुरुते॥ 7-5-15 नानुतिष्ठन्ति तदुचितान् शमदमादीन्न सेवन्तेऽतः प्राप्तमपि दुःसंरक्ष्यमिति भावः॥ 7-5-16 अवजानीते अवज्ञां करोति। न रक्षतीति यावत्॥ 7-5-19 दैवं प्राक्कर्म। यत् यतः एतां अब्राह्मणत्वरूपाम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|